Ask Medha

CBSE Class 10 · Sanskrit · board exam 2027

CBSE Class 10 Sanskrit Sample Paper 2026

The board’s 2026 sample paper, set SQP-122 — all 30 questions as printed; 16 objective answers from the board’s own key. Each question names its chapter, where that chapter’s most-asked questions are.

Full marks 80 · Time 3 h

Section A · Objective questions (17)

  1. Q 6(i)Objective1 markCh. 2: समासाः

    महादेवी करुणां करोतु ।

    • (A) महा देवी
    • (B) महती च इयं देवी ✓
    • (C) महत् देवी
    • (D) महान् देवी

    Answer (the board’s key): (B)

  2. Q 6(ii)Objective1 markCh. 2: समासाः

    समानशीलव्यसनेषु सख्यम् ।

    • (A) समानं शीलं व्यसनं येषां तेषु ✓
    • (B) समानं च शीलं च व्यसनं च
    • (C) समान-शील-व्यसनैः सह
    • (D) समानं शीलं व्यसनं यत्र समानम्

    Answer (the board’s key): (A)

  3. Q 6(iii)Objective1 markCh. 2: समासाः

    कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् ।

    • (A) मलं मलं प्रति
    • (B) मलस्य अभावः
    • (C) मलस्य योग्यम्
    • (D) मलेन सहितम् ✓

    Answer (the board’s key): (D)

  4. Q 6(iv)Objective1 markCh. 2: समासाः

    ततः प्रविशतः तापसौ कुशलवौ ।

    • (A) कुशः च लवौ च
    • (B) कुशलवयोहः समाहारः
    • (C) कुशः च लवः च ✓
    • (D) कुशौ च लवौ च

    Answer (the board’s key): (C)

  5. वाक्पटु: धैर्य + मतुप् मन्त्री सभायामप्यकातर: ।

    • (A) धैर्यमान्
    • (B) धैर्यवती
    • (C) धैर्यमन्तः
    • (D) धैर्यवान् ✓

    Answer (the board’s key): (D)

  6. सा भामिनु + ङीप् व्याघ्रस्य भयात् विमुक्ता ।

    • (A) भामिन:
    • (B) भामिनी ✓
    • (C) भामिन
    • (D) भामिना

    Answer (the board’s key): (B)

  7. Q 7(iii)Objective1 markCh. 3: प्रत्ययाः

    पिता तनूजस्य रुग्णताम् आकर्ण्य व्याकुल: जातः ।

    • (A) रोगी+टाप्
    • (B) रुग्+ताम्
    • (C) रुग्ण+तल्
    • (D) रुग्ण+ताम्
  8. किं कुपिता एवं भणति उत प्रकृतिस्था?

    • (A) कुप् + क्त ✓
    • (B) कुप् + ठक्
    • (C) कुप् + तल्
    • (D) कुप् + मतुप्

    Answer (the board’s key): (A)

  9. Q 8(i)Objective1 markCh. 6: वाच्यम्

    पित्रा आपणात् -------------- आनीयन्ते ।

    • (A) फलानि ✓
    • (B) फलम्
    • (C) फले
    • (D) फलैः

    Answer (the board’s key): (A)

  10. Q 8(ii)Objective1 markCh. 6: वाच्यम्

    -------------- शाटिकां क्रीणामि ।

    • (A) मया
    • (B) अहम् ✓
    • (C) अस्माभिः
    • (D) आवाम्

    Answer (the board’s key): (B)

  11. Q 8(iii)Objective1 markCh. 6: वाच्यम्

    अहमत्र भवतः जनकं नामतो वेदितुम् --------------?

    • (A) इष्यते
    • (B) इष्यन्ते
    • (C) इच्छामि ✓
    • (D) इच्छति

    Answer (the board’s key): (C)

  12. ते वृक्षाणि हरिताः सन्ति ।

    • (A) वृक्षाः ✓
    • (B) वृक्षः
    • (C) वृक्षे
    • (D) वृक्षम्

    Answer (the board’s key): (A)

  13. पिता पुत्राय क्रुध्यन्ति ।

    • (A) क्रुध्यामि
    • (B) क्रुध्यतः
    • (C) क्रुध्यति ✓
    • (D) क्रुध्यसि

    Answer (the board’s key): (C)

  14. बालकः ह्यः गच्छति ।

    • (A) गमिष्यति
    • (B) गच्छतु
    • (C) अगच्छत् ✓
    • (D) गच्छेत्

    Answer (the board’s key): (C)

  15. मां निजगले बद्ध्वा चल सत्वरम्।

    • (A) सर्वम्
    • (B) सत्वम्
    • (C) दूरम्
    • (D) शीघ्रम् ✓

    Answer (the board’s key): (D)

  16. अन्येषां वदने ये तु चक्षुर्नमनी मते।

    • (A) वादने
    • (B) मुखे ✓
    • (C) सम्भाषणे
    • (D) वचने

    Answer (the board’s key): (B)

  17. उदीरितः अर्थः पशुना अपि गृह्यते।

    • (A) चिन्तितः
    • (B) विचारितः
    • (C) कथितः ✓
    • (D) विस्मृतः

    Answer (the board’s key): (C)

Section B · Written questions (13)

  1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -

  2. अ. भवान् हितेशः। पितुः स्थानान्तरणवशात् भवान् असमप्रदेशात् दिल्लीनगरम् आगत्य नूतने विद्यालये प्रवेशं प्राप्तवान्। मञ्जूषायां दत्तानां पदानां सहायतया अस्य नगरस्य विद्यालयस्य च वर्णनं कुर्वन् मित्रं राघवेन्द्रं प्रति पत्रं लिखतु। अथवा आ. भवती सुमेधा तिरुपतिस्थे राजकीय माध्यमिकविद्यालये दशमीकक्षायां पठति। विद्यालयस्य शुल्कं दातुं भवती असमर्था अस्ति अतः मञ्जूषायां दत्तानां पदानां सहायतया शुल्कार्थं निवेदयन्ती प्रधानाचार्यां प्रति प्रार्थनापत्रं लिखतु।

  3. मञ्जूषायां प्रदत्तशब्दानां साहाय्येन अधोलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत - "मार्ग-सुरक्षा" मञ्जूषा पद्यात्रिणः, दुर्घटना, परिणामाः, अवधानेन, दक्षिणतः, रक्त-हरित-पीत-सङ्केतान्, नियमाः, चतुष्पथि, पालनीयाः, दृष्ट्वा, वामतः, वाहनचालनसमये, यातायातसङ्केताः ।

  4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत - (i) विज्ञान के इस युग में बहुत आविष्कार हुए। (ii) स्वस्थ शरीर में स्वस्थ मन होता है। (iii) रूस और यूक्रेन के बीच युद्ध कब समाप्त होगा? (iv) तुम्हारा स्वास्थ्य कैसा है? (v) कभी भी अहंकार मत करो।

  5. Q 5Short answer4 marksCh. 1: सन्धिः

    अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (i) योजकस्तत्र दुर्लभः। (ii) कर्तुं शक्यो भवेत् + येन स विवेक इतीरितः। (iii) बुद्धिमती भयात् पुनः + अपि मुक्ताऽभवत्। (iv) राजासनं खल्वेतत्, न युक्तमध्यासितुम्। अथवा अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (i) यानानां पङ्क्तयो हि अनन्ताः कठिनं संसरणम्। (ii) कश्चित् खगः + एव वनराजः भविष्यति। (iii) सः रात्रिनिवासं कर्तुं कश्चिद् गृहस्थमुपागत। (iv) सर्वे + अपि नैतादृशाः।

  6. Q 9Very short answer4 marksCh. 5: समयः

    कालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत- (i) भाविका प्रातः --------- (4:00) वादने उत्तिष्ठति। (ii) तदनन्तरं सा ----------- (05:15) वादने योगाभ्यासं करोति। (iii) योगासनात् परं सा ----------- (6:30) वादने स्नानं करोति। (iv) तदनन्तरं सा ----------- (7:45) वादने विद्यालयं गच्छति।

  7. Q 10Very short answer3 marksCh. 4: अव्ययानि

    मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत - (i) ------- असत्यं वदिष्यति तर्हि उचितं न स्यात्। (ii) कर्महीनः जनः ------- भ्रमित्वा समयं यापयति। (iii) अहम् --------- तत्र गन्तुम् इच्छामि। मञ्जूषा इतस्ततः, अपि, यदि ।

  8. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - स: वृषभ: हलमूढ्वा गन्तुमशक्त: क्षेत्रे अपतत्। क्रुद्ध: कृषीवल: तमुत्यापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषभ: नोत्थित:। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातु: सुरभे: नेत्राभ्यामाश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिप: तामपृच्छत् -“अयि शुभे ! किमेवं रोदिषि?” सा च “भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। स: दीन इति जानन्नपि कृषक: तं बहुधा पीडयति। स: कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं स: न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्। “भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभि: प्रत्यवोचत् - बहुनपत्यानि मे सन्तीति सत्यम्। तथाप्यहेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बल:। I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (i) वृषभ: कुत्र अपतत्? (ii) सर्वधेनूनां माता का आसीत्? (iii) सुरभि: कस्य दैन्यं दृष्ट्वा रोदिति स्म? II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) (i) सुरभि: किमर्थं तस्मिन् पुत्रे एव विशिष्य आत्मवेदनामनुभवति? (ii) सुराधिप: सर्वप्रथमं सुरभिं किम् अपृच्छत्? (iii) सुरभे: नेत्राभ्यामाश्रूणि किमर्थम् आविरासन्? III. (अ) निर्देशानुसारम् उत्तरत - (i) ‘अपत्यानि’ इति पदस्य विशेषणपदं किं प्रयुक्तम्? (ii) ‘अनुभवामि’ इत्यर्थे गद्यांशे कर्तृपदं किं प्रयुक्तम्? अथवा (आ) निर्देशानुसारम् उत्तरत - (i) ‘स्नेह:’ इत्यस्य किं पर्यायपदं गद्यांशात् चित्वा लिखत । (ii) “स: कृच्छ्रेण भारमुद्वहति।” अत्र ‘स:’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

  9. अधोलिखितं पद्ये पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपु:। नास्त्युद्यमसमो बन्धु: कृत्वा यं नावसीदति ॥ य: इच्छत्यात्मन: श्रेय: प्रभूतानि सुखानि च। न कुर्यादहितं कर्म स परेभ्य: कदापि च ॥ I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (i) मानव: केभ्य: अहितं कर्म न कुर्यात्? (ii) आलस्यं कुत्र स्थित: भवति? (iii) मनुष्याणां बन्धु: क: अस्ति? II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) (i) य: जन: सुखानि इच्छति स: किं न कुर्यात्? (ii) किं कृत्वा मानव: दु:खी न भवति? (iii) मनुष्याणां महान् रिपु: क: अस्ति III. (अ) निर्देशानुसारम् उत्तरत - (i) ‘प्रभूतानि’ इति पदस्य विशेष्यपदं किम् अस्ति? (ii) “य: इच्छत्यात्मन: श्रेय: प्रभूतानि सुखानि च।” अत्र क्रियापदं किम् अस्ति? अथवा (आ) निर्देशानुसारम् उत्तरत - (i) अत्र ‘बन्धु:’ इत्यस्य किं विलोमपदं प्रयुक्तम्? (ii) ‘अस्ति’ इति क्रियापदस्य कर्तृपदं चित्वा लिखत ।

  10. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - एवमेव वानरा: वारं वारं सिंहं तुदन्ति। क्रुद्ध: सिंह: इतस्तत: धावति, गर्जति परं किमपि कर्तुमसमर्थ: एव तिष्ठति। वानरा: हसन्ति वृक्षोपरि च विविधा: पक्षिण: अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति। निद्राभङ्गदु:खेन वनराज: सन्नपि तुच्छजीवै: आत्मन: एतादृश्या दुरवस्थया श्रान्त: सर्वजन्तून् दृष्ट्वा पृच्छति - सिंह: - (क्रोधेन गर्जन्) भो:! अहं वनराज: किं भयं न जायते? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा? एक: वानर: - यत: त्वं वनराज: भवितुं तु सर्वथाऽयोग्य:। राजा तु रक्षक: भवति परं भवान् तु भक्षक:। अपि च स्वरक्षायामपि समर्थ: नासि तर्हि कथमस्मान् रक्षिष्यसि? अन्य: वानर: - किं न श्रुता त्वया पञ्चतन्त्रोक्ति:- यो न रक्षति वित्रस्तान् पीड्यमानपरै: सदा। जन्तून पार्थिवरूपेण स कृतान्तो न संशय: ॥ काक: - आम्, सत्यं कथितं त्वया। वस्तुत: वनराज: भवितुम् अहमेव योग्य:। I. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (i) अत्र क: आत्मानं वनराज: भवितुं योग्य: मन्यते? (ii) वनराजस्य दुरवस्थां दृष्ट्वा के कलरवं कुर्वन्ति? (iii) के वारं वारं सिंहं तुदन्ति? II. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) (i) अत्र वानर: सिंहं किमर्थं वनराज: भवितुं सर्वथाऽयोग्यं मन्यते? (ii) क: पार्थिवरूपेण कृतान्तः मन्यते? (iii) क्रुद्ध: सिंह: किमर्थम् इतस्तत: धावति गर्जति च? III. (अ) निर्देशानुसारम् उत्तरत - (i) ‘कलरवम्’ इति पदस्य विशेषणपदं किं प्रयुक्तम्? (ii) ‘जायते’ इति क्रियापदस्य किं कर्तृपदं नाट्यांशे प्रयुक्तम्? अथवा (आ) निर्देशानुसारम् उत्तरत - (i) ‘रक्षक:’ इति पदस्य विपर्ययपदं नाट्यांशात् चित्वा लिखत । (ii) “किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा?” अत्र ‘माम्’ इति सर्वनामपदं कस्मै युक्तम्?

  11. रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत - (i) चातक: पुरन्दरं जलं याचते। (ii) बुद्धिमती पितु: गृहं प्रति चलिता। (iii) अपूर्वोऽयं मानवानां सरस्वतीवतार:। (iv) व्याघ्रमारी तूर्णं धाविता।

  12. अ मञ्जूषात: समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुन: लिखत - वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्। कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् ॥ करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। अन्वय: - वायुमण्डलं (i) ------ दूषितम्(अस्ति)। जलम् हि निर्मलम् न (अस्ति) (ii)-------- कुत्सितवस्तुमिश्रितम् (अस्ति) धरातलम् समलम् (अस्ति)। (iii) ------- बहि: अन्त: (च) तु बहु शुद्धीकरणम् (iv) ------------ (अस्ति)। मञ्जूषा - जगति, करणीयम्, भक्ष्यम्, भृशम्। अथवा आ मञ्जूषाया: साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुन: लिखत - आपेदिरेऽम्बरपथं परित: पतङ्गा: भृङ्गा: रसालमुकुलानि समाश्रयन्ते। सङ्कोचमञ्चति सरस्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ भावार्थ: - हे सरोवर! (i) ---------- सङ्कुचिते सति अर्थात् यदा त्वं शुष्कं जायमान: अस्ति तदा तव समीपस्था: खगा: आकाशमार्गेण अन्यत्र गच्छन्ति। (ii) ---------------- आम्रपुष्पाणाम् आश्रयं स्वीकुर्वन्ति, किन्तु त्वयि स्थिता: दीना: (iii) -------------- कुत्र गच्छेयु:? ते तु अत्रैव स्थास्यन्ति अन्यत्र कुत्रापि न (iv) ----------------। आपत्काले स्वामिभक्ता एव सह तिष्ठन्ति अन्ये स्वार्थिन: मैत्रीं त्यजन्ति। मञ्जूषा - भ्रमरा:, गमिष्यन्ति, मत्स्या:, त्वयि।

  13. अधोलिखित-कथांशं समुचित-क्रमेण लिखत - (i) चौरस्य पदध्वनिना अतिथि: प्रबुद्ध: अभवत् धावित्वा तं चौरम् अगृहाच्च। (ii) न्यायाधीश: आरक्षिणे कारादण्डम् आदिश्य अतिथिं ससम्मानं मुक्तवान्। (iii) कश्चन निर्धन: जन: रुग्णं पुत्रं द्रष्टुं बसयानं विहाय पदातिरेव प्राचलत्। (iv) मार्गे रात्रौ स: कस्यचित् गृहे आश्रयं प्राप्तवान्। (v) न्यायाधीश: पृथक्-पृथक् विवरणं श्रुतवान् किन्तु प्रमाणाभावात् निर्णेतुं नाशक्नोत्। (vi) तस्मिन् गृहे रात्रौ कश्चन चौर: गृहाभ्यन्तरं प्रविष्ट:। (vii) न्यायाधीश: पुन: तौ घटनाया: विषये वक्तुम् आदिष्टवान्। (viii) आरक्षी एव तम् अतिथिं चौरऽयम् इति प्रख्याप्य कारागारे प्राक्षिपत्।

The same preparation, with Medha Ma’am — on your phone

Every question of every chapter with its model answer, practice questions in the board’s own shapes, 45 minutes of class a day, written answers marked, a test every Sunday and a WhatsApp report to parents.

Medha Ma’am is an AI teacher, not a live tutor. Every answer is checked twice; a person takes responsibility.