AskMedha

CBSE Class 10 · Sanskrit · board exam 2027

CBSE Class 10 Sanskrit Question Paper 2024

The board’s 2024 question paper, set 52 — all 32 questions as printed; 18 objective answers from the board’s own key; full model answers for 3 written questions, how the answer begins for 10 more. Each question names its chapter, where that chapter’s most-asked questions are.

Full marks 80 · Time 3 h

Section A · Objective questions (18)

  1. Q 6(i)Objective1 markCh. 2: समासाः

    किं वनराजपदाय सुपात्रं चीयते ?

    • (A) वनराज: पदाय
    • (B) वनराजा पदाय
    • (C) वनराजे पदाय
    • (D) वनराजस्य पदाय ✓

    Answer (the board’s key): (D)

  2. Q 6(ii)Objective1 markCh. 2: समासाः

    दीने पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवेत् ।

    • (A) कृपार्द्रहृदया ✓
    • (B) कृपयार्द्रहृदया
    • (C) कृपहृदयार्द्रा
    • (D) कृपाद्रहृदया

    Answer (the board’s key): (A)

  3. Q 6(iii)Objective1 markCh. 2: समासाः

    कुशलवौ सभां प्रविशत: ।

    • (A) लव: कुशा: च
    • (B) कुश: लवौ च
    • (C) कुश: च लव: च ✓
    • (D) कुशौ च लवौ च

    Answer (the board’s key): (C)

  4. Q 6(iv)Objective1 markCh. 2: समासाः

    प्रजामुखे सुखं राज्ञ: ।

    • (A) प्रजा सुखे च
    • (B) प्रजानां सुखे ✓
    • (C) प्रजा: सुखं च
    • (D) प्रजाया: सुखं च

    Answer (the board’s key): (B)

  5. Q 6(v)Objective1 markCh. 2: समासाः

    सव्यवधानं न चारित्रलोपाय ।

    • (A) व्यवधानं सह
    • (B) व्यवधाने सहितम् ✓
    • (C) व्यवधानाय सहितम्
    • (D) व्यवधानस्य सहितम्

    Answer (the board’s key): (B)

  6. 'विद्वान्' एव चक्षुष्मान् प्रकीर्तितः ।

    • (A) चक्षुष् + टाप्
    • (B) चक्षुष् + मतुप् ✓
    • (C) चक्षुष् + डीप्
    • (D) चक्षुष् + वतुप्

    Answer (the board’s key): (B)

  7. मम नृत्यं प्रकृतेः आराधन + टाप् ।

    • (A) आराधनम्
    • (B) आराधनः
    • (C) आराधना ✓
    • (D) आराधनता

    Answer (the board’s key): (C)

  8. Q 7(iii)Objective1 markCh. 3: प्रत्ययाः

    चित्ते 'अवक्रता' भवेत् ।

    • (A) अवक्र + टाप्
    • (B) अवक्र + डीप्
    • (C) अवक्र + त्व
    • (D) अवक्र + तल् ✓

    Answer (the board’s key): (D)

  9. इयं काचित् व्याघ्रमारी इति ।

    • (A) व्याघ्रमार् + टाप्
    • (B) व्याघ्रमार् + डीप् ✓
    • (C) व्याघ्रमार् + मतुप्
    • (D) व्याघ्रमार् + ई

    Answer (the board’s key): (B)

  10. वेदानां महत् + त्व को न जानाति ?

    • (A) महत्त्वम् ✓
    • (B) महत्ता
    • (C) महत्वम्
    • (D) महात्वम्

    Answer (the board’s key): (A)

  11. Q 8(i)Objective1 markCh. 6: वाच्यम्

    शिवा - रमे ! अद्य विलम्बेन कथम् ? रमा - शिवे ! अद्य ______ उत्सवं द्रष्टुं गच्छामि ।

    • (A) मम
    • (B) माम्
    • (C) मया
    • (D) अहम् ✓

    Answer (the board’s key): (D)

  12. Q 8(ii)Objective1 markCh. 6: वाच्यम्

    शिवा - किं तत्र तव सखी अपि गच्छति ? रमा - नहि, तत्र ______ एव गम्यते ।

    • (A) अहम्
    • (B) सख्या
    • (C) वयम्
    • (D) मया ✓

    Answer (the board’s key): (D)

  13. Q 8(iii)Objective1 markCh. 6: वाच्यम्

    शिवा - साधु ! किं तत्र जनाः अपि उत्सवं पश्यन्ति ? रमा - आम्, तत्र जनैः अपि ______ दृश्यते ।

    • (A) उत्सवः ✓
    • (B) उत्सवम्
    • (C) उत्सवान्
    • (D) उत्सवौ

    Answer (the board’s key): (A)

  14. Q 8(iv)Objective1 markCh. 6: वाच्यम्

    शिवा - रमे ! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति । रमा - शोभनम् । तत्र मया अपि गीतं ______ ।

    • (A) गायामि
    • (B) गायति
    • (C) गीयते ✓
    • (D) गीयन्ते

    Answer (the board’s key): (C)

  15. कश्चन निर्धन: वित्तम् उपार्जितवान् ।

    • (A) वायुम्
    • (B) फलम्
    • (C) धनम् ✓
    • (D) अन्नम्

    Answer (the board’s key): (C)

  16. अपर: वानर: सिंहस्य पुच्छं धुनाति ।

    • (A) अनेका:
    • (B) अन्य:
    • (C) प्रथम:
    • (D) एक: ✓

    Answer (the board’s key): (D)

  17. रसालमुकुलानि भृङ्गा: समाश्रयन्ते ।

    • (A) हया:
    • (B) नागा:
    • (C) गजा:
    • (D) भ्रमरा: ✓

    Answer (the board’s key): (D)

  18. वासव ! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि ।

    • (A) पुत्र !
    • (B) इन्द्र ! ✓
    • (C) गणेश !
    • (D) शिव !

    Answer (the board’s key): (B)

Section B · Written questions (14)

  1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत : 'संस्कृतभाषा सर्वभाषाणां जननी' इत्युच्यते । परम् अद्यत्वे छात्राणां मध्ये एकः चर्चितः प्रश्नः वर्तते यत् "संस्कृतपठनेन के लाभाः ?" अर्थात् संस्कृतपठनेन जीवनवृत्तेः अवसराः के ? वस्तुतः भौतिके युगे ईदृशी जिज्ञासा स्वाभाविकी एव । अस्याः जिज्ञासायाः समुचितं समाधानं सञ्चारमाध्यमेन कर्तुं शक्यते । वयम् पश्यामः यत् अद्यत्वे संस्कृतपठनेन नैके लाभाः सन्ति । संस्कृतभाषा विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति । ऐतिहासिकदृष्ट्या संस्कृते लिखिताः ग्रन्थाः वेदाः महत्त्वपूर्णं स्थानं भजन्ते । आधुनिकसंस्कृतस्य वैज्ञानिकभाषारूपेण सर्वत्र महत्त्वपूर्णं स्थानं दृश्यते । यदा विश्वं कृत्रिममेधा विषये अनुसन्धानं करोति तत्र संस्कृतं महत् साहाय्यं कर्तुं शक्नोति । यतो हि संस्कृतस्य व्याकरणं पूर्णतया वैज्ञानिकम् अस्ति । वर्तमान समये संस्कृतस्य अध्येतारः शिक्षणकौशल-चिकित्सा-खगोल-विद्या-वास्तुविद्या-'आई.ए.एस.' प्रभृति । सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति । अस्माकं संस्कृतिः संस्कृताधारिता अपि । अत एव संस्कृतभाषायाः अध्ययनं जीवनमूल्यपरकम् जीवनवृत्तिसाधनपरम् च अस्ति, नात्र कोऽपि सन्देहः । (अ) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) 2×1=2 (i) सर्वभाषाणां जननी का ? (ii) अस्माकं संस्कृतिः का आधारिता वर्तते ? (iii) कस्य व्याकरणं वैज्ञानिकम् ? (आ) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) 2×2=4 (i) ऐतिहासिकदृष्ट्या के महत्त्वपूर्णं स्थानं भजन्ते ? (ii) वर्तमानसमये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु के स्वप्रतिभा-प्रदर्शनं कुर्वन्ति ? (iii) संस्कृतभाषायाः अध्ययनं कीदृशम् अस्ति ? (इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । 1 (ई) यथानिर्देशम् उत्तरत : (केवलं प्रश्नत्रयम्) 3×1=3 (i) 'पश्यामः' इति क्रिया पदस्य कर्तृपदं किम् ? (A) नैके (B) वयम् (C) लाभाः (D) संस्कृतपठनेन (ii) 'समुचितम्' इति विशेषणपदस्य विशेष्यपदं किम् ? (A) समाधानम् (B) संस्कृतशिक्षकः (C) स्वानुभवैः (D) जिज्ञासायाः (iii) 'हानयः' इति पदस्य किं विपर्ययपदं गद्यांशे प्रयुक्तम् ? (A) सन्ति (B) लिखिताः (C) लाभाः (D) नैके (iv) 'अध्येतारः' इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम् ? (A) अस्ति (B) सन्ति (C) भजन्ते (D) कुर्वन्ति

    Medha Ma’am

    Medha Ma’am

    AskMedha’s AI teacher

    Model answer · unseen passage, Sanskrit benefits

    1. 1.संस्कृतभाषा।1 mark
    2. 2.संस्कृताधारिता (अस्माकं संस्कृतिः संस्कृताधारिता अस्ति)। यदि (iii) किया हो तो – संस्कृतस्य।1 mark
    3. 3.ऐतिहासिकदृष्ट्या संस्कृते लिखिताः ग्रन्थाः वेदाः महत्त्वपूर्णं स्थानं भजन्ते।2 marks
    4. 4.वर्तमानसमये संस्कृतस्य अध्येतारः शिक्षणकौशल-चिकित्सा-खगोलविद्या-वास्तुविद्या-'आई.ए.एस.'-प्रभृतिषु सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति। यदि (iii) किया हो तो – संस्कृतभाषायाः अध्ययनं जीवनमूल्यपरकं जीवनवृत्तिसाधनपरं च अस्ति।2 marks
    5. 5.संस्कृतपठनस्य लाभाः (अथवा – संस्कृतभाषायाः महत्त्वम्)।1 mark
    6. 6.(B) वयम्।1 mark
    7. 7.(A) समाधानम्।1 mark
    8. 8.(C) लाभाः। यदि (iv) किया हो तो – (D) कुर्वन्ति।1 mark

    Marks split from a structure derived from past papers (checked twice); not CBSE’s official scheme

  2. Q 2Very short answer5 marksCh. 1: पत्रलेखनम्

    भवान् सौरवः । स्वमित्रं शाश्वतं प्रति स्वयात्रावृत्तान्तविषये लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखतु । 10×½=5 प्रयागराजतः दिनाङ्कः ______ प्रिय मित्र (i) ______ ! सस्नेहं (ii) ______ अत्र सर्व कुशलं तत्रास्तु । गतमासे अहं (iii) ______ शिमलां गतवान् । तत्र पर्वतानां (iv) ______ दृष्ट्वा मम मनः अतीव (v) ______ जातम् । तत्र (vi) ______ पर्यावरणं वर्तते । शिमला (vii) ______ राजधानी अस्ति । अतः तत्र सर्वत्र विकासः दृश्यते । देशात् विदेशेभ्यः च पर्यटकाः भ्रमणाय (viii) ______ आगच्छन्ति । अहमपि शिमलाभ्रमणं कृत्वा आत्मानं (ix) ______ मन्ये । भवान् अपि समयं प्राप्य एकवारं शिमलां गच्छेत् । भवदीयं प्रियं मित्रम् (x) ______ । मञ्जूषा सौरवः, शिमलाम्, भ्रमणाय, प्रसन्नम्, धन्यम्, सौन्दर्यम्, शुद्धम्, हिमाचलप्रदेशस्य, नमोनमः, शाश्वत !

    Medha Ma’am

    Medha Ma’am

    AskMedha’s AI teacher

    Model answer · informal letter, travel account

    1. 1.(i) शाश्वत – 'प्रिय मित्र शाश्वत !'0.5 marks
    2. 2.(ii) नमोनमः – 'सस्नेहं नमोनमः।'0.5 marks
    3. 3.(iii) भ्रमणाय – 'गतमासे अहं भ्रमणाय शिमलां गतवान्।'0.5 marks
    4. 4.(iv) सौन्दर्यम् – 'तत्र पर्वतानां सौन्दर्यं दृष्ट्वा'0.5 marks
    5. 5.(v) प्रसन्नम् – 'मम मनः अतीव प्रसन्नं जातम्।'0.5 marks
    6. 6.(vi) शुद्धम् – 'तत्र शुद्धं पर्यावरणं वर्तते।'0.5 marks
    7. 7.(vii) हिमाचलप्रदेशस्य – 'शिमला हिमाचलप्रदेशस्य राजधानी अस्ति।'0.5 marks
    8. 8.(viii) शिमलाम् – 'पर्यटकाः भ्रमणाय शिमलाम् आगच्छन्ति।'0.5 marks
    9. 9.(ix) धन्यम् – 'आत्मानं धन्यं मन्ये।'0.5 marks
    10. 10.(x) सौरवः – 'भवदीयं प्रियं मित्रम् सौरवः।'0.5 marks

    Marks split from a structure derived from past papers (checked twice); not CBSE’s official scheme

  3. प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत । अथवा निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद्ं लिखत : 'मम प्रियं पुस्तकम्'

    Medha Ma’am

    Medha Ma’am

    AskMedha’s AI teacher

    Model answer · Sanskrit paragraph, trees

    वृक्षाः अस्माकं मित्राणि वृक्षाः अस्माकं परमाणि मित्राणि सन्ति। ते अस्मभ्यं मधुराणि फलानि सुन्दराणि पुष्पाणि च यच्छन्ति। वृक्षाः शुद्धं वायुं ददति। ग्रीष्मकाले पथिकाः वृक्षाणां छायायां विश्राम्यन्ति। खगाः वृक्षेषु नीडानि रचयन्ति। वृक्षेभ्यः औषधयः काष्ठं च प्राप्यन्ते। वृक्षाः वर्षां अपि आनयन्ति। अतः अस्माभिः नूतनाः वृक्षाः रोपणीयाः।

    • दोनों विकल्पों में से केवल एक चुनें और कम से कम पाँच पूरे संस्कृत वाक्य लिखें। हर वाक्य पूर्ण विराम (।) पर समाप्त करें।
    • मञ्जूषा के शब्दों का प्रयोग करें। हर वाक्य में कर्ता और क्रिया का वचन मिलाएँ, जैसे वृक्षाः ददति, खगाः रचयन्ति।
    • अनुच्छेद के ऊपर शीर्षक लिखें और अंत में वृक्षारोपण का संदेश देने वाला एक वाक्य लिखें।

    Marks split as in the board’s published marking scheme

  4. Q 4Very short answer5 marksCh. 4: रचनानुवादः

    अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत : (केवलं वाक्यपञ्चकम्) (i) मधुर मेरा मित्र है । Madhur is my friend. (ii) अनेक लोग उद्यान में घूम रहे हैं । Many people are walking in the park. (iii) हम सब घर जा रहे हैं । We all are going home. (iv) रमा ने कल संस्कृत गीत गाया । Rama sang a Sanskrit song yesterday. (v) विद्यालय में सौ शिक्षक हैं । There are hundred teachers in the school. (vi) कल दस बजे परीक्षा होगी । The examination will be held tomorrow at 10 o'clock. (vii) मैं हिन्दी भाषा जानता हूँ । I know Hindi language.

    How the model answer begins

    1. (i) मधुरः मम मित्रम् अस्ति।

    The full answer from Medha Ma’am →
  5. Q 5Short answer4 marksCh. 1: सन्धिः

    अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत : (केवलं प्रश्नचतुष्टयम्) (i) अभियुक्तः + च अतीव कृषकायः । (ii) बसयानं विहाय पदातिरेव प्राचलत् । (iii) न कः + अपि त्रैलोक्ये मत्सदृशः । (iv) धिङ् मामेवं भूतम् । (v) सर्वथा सम्यगुक्तम् ।

    How the model answer begins

    1. (i) अभियुक्तः + च = अभियुक्तश्च (विसर्ग सन्धि: च परे होने पर विसर्ग का श्)।

    The full answer from Medha Ma’am →
  6. Q 9Short answer4 marksCh. 5: समयः

    कालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत : (केवलं प्रश्नचतुष्टयम्) : (i) चरितार्थः प्रातः 7:00 वादने उद्यानं गच्छति । (ii) 8:00 वादने सः गृहं प्रत्यागच्छति । (iii) तस्य प्रथमा कक्षा 9:30 वादने भवति । (iv) 12:45 वादने सः अध्ययनकार्यात् मुक्तो भवति । (v) सः 2:15 वादने क्रीडितुं क्रीडाक्षेत्रं गच्छति ।

    How the model answer begins

    1. (i) चरितार्थः प्रातः सप्तवादने उद्यानं गच्छति।

    The full answer from Medha Ma’am →
  7. Q 10Short answer3 marksCh. 4: अव्ययानि

    मञ्जूषायां प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत : (केवलं प्रश्नत्रयम्) (i) गङ्गा हिमालयात् प्रभवति, यमुना ________ प्रभवति ? (ii) विद्यालये ________ कार्यक्रम: भविष्यति । (iii) ________ वृष्टि: प्रारभत । (iv) धनस्य ________ प्रयोगं मा कुर्य: । मञ्जूषा: सहसा, वृथा, श्व:, कुत:

    How the model answer begins

    1. यमुना कुतः प्रभवति?

    The full answer from Medha Ma’am →
  8. अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुन: लिखत : (केवलं प्रश्नत्रयम्) (i) क्रीडाक्षेत्रे छात्रा: पठथ: । (A) पठसि (B) पठथ (C) पठाम: (D) पठन्ति (ii) ह्य: विद्यालयस्य वार्षिकोत्सव: भविष्यति । (A) भवति (B) भवतु (C) अभवत् (D) भवेत् (iii) बलीवर्द: शरीरेण दुर्बलम् आसीत् । (A) दुर्बल: (B) दुर्बला (C) दुर्बलस्य (D) दुर्बलात् (iv) महावृक्षा: सेवितव्य: । (A) महावृक्षे (B) महावृक्ष: (C) महावृक्षस्य (D) महावृक्षम्

    How the model answer begins

    1. (i) (D) पठन्ति — क्रीडाक्षेत्रे छात्राः पठन्ति।

    The full answer from Medha Ma’am →
  9. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत : आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय: । भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत् । स भारवेदनया क्रन्दति स्म । तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच — “रे दुष्ट ! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारित: । इदानीं निजकृत्यस्य फलं भुङ्क्ष्व । अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चै: अहसत् । यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ । न्यायाधीशेन पुनस्तौ घटनाया: विषये वक्तुमादिष्टौ । आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम् अघटत् स शव: प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् — मान्यवर ! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ‘त्वयाऽहं चोरिताया: मञ्जूषाया: ग्रहणाद् वारित:, अत: निजकृत्यस्य फलं भुङ्क्ष्व ।’ (i) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) (क) सुपुष्टदेह: क: आसीत् ? (ख) अभियुक्तय भारवत: कस्य वहनं दुष्करम् आसीत् ? (ग) कृशकाय: क: आसीत् ? (ii) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) (क) आरक्षी अभियुक्तं प्रति दण्डविषये किम् प्रोच्य उच्चै: अहसत् ? (ख) अभियुक्त: कया क्रन्दति स्म ? (ग) उभौ शवम् आनीय कुत्र स्थापितवन्तौ ? (iii) निर्देशानुसारम् उत्तरत : (केवलं प्रश्नद्वयम्) (क) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे अत्र वाक्ये कर्तृपदं किम् ? (ख) ‘चोरिताया:’ इति विशेषणपदस्य विशेष्यपदं किम् ? (ग) ‘प्रणम्य’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ?

    How the model answer begins

    1. (i) (क) आरक्षी। (अथवा (ग) अभियुक्तः।)

    The full answer from Medha Ma’am →
  10. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत : पिता यच्छति पुत्राय बाल्ये विद्याधनं महत् । पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता ।। (i) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) (क) पिता कदा विद्याधनं यच्छति ? (ख) पिता कस्मै विद्याधनं यच्छति ? (ग) क: तप: तेपे ? (ii) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) (क) का उक्ति: कृतज्ञता ? (ख) पिता पुत्राय कीदृशं विद्याधनं यच्छति ? (ग) पिता पुत्राय बाल्ये कीदृशं धनं यच्छति ? (iii) निर्देशानुसारम् उत्तरत : (केवलं प्रश्नद्वयम्) (क) ‘सुताय’ इति पदस्य पर्यायपदं किम् ? (ख) ‘महत्’ इति पदस्य विशेष्यपदं किम् ? (ग) ‘यच्छति’ इति पदस्य कर्तृपदं किम् ?

    How the model answer begins

    1. (क) बाल्ये। (ख) पुत्राय।

    The full answer from Medha Ma’am →
  11. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत : राम: — अहो ! उदात्तरम्य: समुदाचार: । किं नामधेयो भवतोर्गुरु: ? लव: — ननु भगवान् वाल्मीकि: । राम: — केन सम्बन्धेन ? लव: — उपनयनोपदेशेन । राम: — अहमत्रभवत: जनकं नामतो वेदितुमिच्छामि । लव: — न हि जानाम्यस्य नामधेयम् । न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति । राम: — अहो माहात्म्यम् । कुश: — जानाम्यहं तस्य नामधेयम् । राम: — कथ्यताम् । कुश: — निरनुक्रोशो नाम । राम: — वयस्य, अपूर्वं खलु नामधेयम् । विदूषक: — (विचिन्त्य) एवं तावत् पृच्छामि । निरनुक्रोश इति क एवं भणति ? कुश: — अम्बा । (i) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) (क) लवस्य गुरो: नाम किम् ? (ख) लवकुशयो: गुरो: नाम क: पृच्छति ? (ग) लवस्य पितु: नाम क: जानाति ? (ii) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) (क) वाल्मीकि: केन सम्बन्धेन लवकुशयो: गुरु: अस्ति ? (ख) कुश: स्वपितु: नाम किम् ज्ञापयति ? (ग) क: लवकुशयो: जनकस्य नाम वेदितुम् इच्छति ? (iii) निर्देशानुसारम् उत्तरत : (केवलं प्रश्नद्वयम्) (क) ‘वाल्मीकि:’ इति पदस्य विशेषणपदं किम् ? (ख) ‘जानामि’ इति पदस्य कर्तृपदं किम् ? (ग) ‘माता’ इति पदस्य पर्यायपदं किं प्रयुक्तम् ?

    How the model answer begins

    1. (क) वाल्मीकिः। (ख) रामः। (ग) कुशः।

    The full answer from Medha Ma’am →
  12. अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत : (केवलं प्रश्नचतुष्टयम्) (i) य: आत्मन: श्रेय: इच्छति । (ii) सुरभि: पुत्रस्य दैन्यं दृष्ट्वा रोदिति । (iii) त्वं मानुषात् बिभेषि । (iv) काक: कृष्ण: भवति । (v) हरितरूपां माला रमणीया ।

  13. मञ्जूषा: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत : ‘प्रस्तरतले लतातारुल्मा नो भवन्तु पिष्टा: । पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ।। मानवाय जीवनं कामये नो जीवनमरणम् । शुचि ।। अन्वय: - (i) ________ प्रस्तरतले पिष्टा: नो (ii) ________ । निसर्गे (iii) ________ सभ्यता समाविष्टा न (iv) ________ । मानवाय जीवनं कामये नो जीवनमरणम् । मञ्जूषा पाषाणी, स्यात्, लतातारूल्मा:, भवन्तु अथवा अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत : एक एव खगो मानी वने वसति चातक: । पिपासितो वा म्रियते याचते वा पुरन्दरम् ।। भावार्थ: - वने केवलम् (i) ________ एव (ii) ________ स्वाभिमानी पक्षी वसति । स: (iii) ________ वा म्रियते अथवा केवलं जलं (iv) ________ याचते अर्थात् स: सर्वं न याचते । मञ्जूषा चातक:, एक:, पिपासित:, इन्द्रदेवम्

    How the model answer begins

    1. (i) लतातरुगुल्माः — लतातरुगुल्माः प्रस्तरतले पिष्टाः नो भवन्तु। (अथवा भावार्थे (i) एकः — वने केवलम् एकः एव चातकः स्वाभिमानी पक्षी वसति।)

    The full answer from Medha Ma’am →
  14. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत : (i) निर्धनस्य पुत्र: छात्रावासे निवसन् अध्ययने संलग्नो जात: । (ii) तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं कारितवान् । (iii) कश्चन निर्धन: जन: परिश्रमेण किञ्चित् धनम् अर्जितवान् । (iv) पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात: । (v) पुत्र: छात्रावासे रुग्ण: जात: । (vi) सायङ्कालो जात: परं गन्तव्यात् स: पुत्र: दूरे आसीत् । (vii) निर्धन: स्वपुत्रं द्रष्टुं पदाति: एव प्राचलत् । (viii) स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम् उपागत: ।

    How the model answer begins

    1. कश्चन निर्धन: जन: परिश्रमेण किञ्चित् धनम् अर्जितवान्।

    The full answer from Medha Ma’am →

The same preparation, with Medha Ma’am — on your phone

Every question of every chapter with its model answer, practice questions in the board’s own shapes, 60 minutes of class a day, written answers marked, a test every Sunday and a WhatsApp report to parents.

Medha Ma’am is an AI teacher, not a live tutor. Every answer is checked twice; a person takes responsibility.