CBSE Class 10 · Sanskrit · board exam 2027
CBSE Class 10 Sanskrit Sample Paper 2025
The board’s 2025 sample paper, set SQP-122 — all 38 questions as printed; 20 objective answers from the board’s own key. Each question names its chapter, where that chapter’s most-asked questions are.
Full marks 80 · Time 3 h
Section A · Written questions (26)
त्वया महत्कौतुकम् आवेदितम् यन्मानुषात् अपि बिभेषि ।
अस्ति देउलाख्यः + ग्रामः ।
मूर्खश्च मूर्खैः सङ्गमनुव्रजन्ति ।
विनिपातो न वः कश्चित् + दृश्यते ।
तोयैः + अल्पैः अपि करुणया भीमभानौ निदाघे ।
खगकुल-कलर्वै: गुञ्जितं वनदेशम् ।
- (A) कलर्वैर्गुञ्जितम् ✓
- (B) कलर्वैगुञ्जितम्
- (C) कलर्वगुञ्जितम्
- (D) कलर्वैरगुञ्जितम्
Answer (the board’s key): (A)
काकचेष्ट: विद्यार्थी एव आदर्शछात्रा: मन्यते ।
- (A) काक: इव चेष्टा यस्य स: ✓
- (B) काकस्य चेष्टा
- (C) काक: चेष्ट:
- (D) काक: चेष्ट: इव
Answer (the board’s key): (A)
वाचि पटु: धैर्यवान् मन्त्री सभायामप्यकातर: ।
- (A) वाचिपटु:
- (B) वाक्पटु: ✓
- (C) वाचपटु:
- (D) वाच पटु:
Answer (the board’s key): (B)
प्रस्तरतले लताश्च तरवश्च गुल्माश्च नो भवन्तु पिष्टा: ।
- (A) लतातरुगुल्मा
- (B) लता: तरु: गुल्मा
- (C) लतातरुगुल्म
- (D) लतातरुगुल्मा: ✓
Answer (the board’s key): (D)
सव्द्यङ्ग्यम् अरे अभिभुक्त! नृत्यातिरिक्तं का तव विशेषता?
- (A) व्यङ्ग्ये सहितम्
- (B) व्यङ्ग्येन सहितम् ✓
- (C) व्यङ्ग्यात् सहितम्
- (D) व्यङ्ग्याय सहितम्
Answer (the board’s key): (B)
सा निजबुद्ध्या व्याघ्रस्य भयात् विमुक्ता ।
- (A) विमुक्त + तल्
- (B) विमुक्त + डीप्
- (C) विमुक्त + टाप् ✓
- (D) विमुक्त + ठक्
Answer (the board’s key): (C)
सामाजिकं कार्यं सर्वे कुर्वन्तु ।
- (A) समाज + ठक् ✓
- (B) समाज + त्व
- (C) समाज + डीप्
- (D) समाज + इक्
Answer (the board’s key): (A)
त्वं मीनान् क्रूर + तल् भक्षयसि ।
- (A) क्रूरताम्
- (B) क्रूरतया ✓
- (C) क्रूरतायाम्
- (D) क्रूरतायाः
Answer (the board’s key): (B)
तदेव महात्मानः सम + त्व इति तथ्यतः आहुः ।
- (A) समत्व
- (B) समता
- (C) समताम्
- (D) समत्वम् ✓
Answer (the board’s key): (D)
बुद्धिमत् + डीप् पुत्रद्वयोपेता पितुः गृहं प्रति चलिता ।
- (A) बुद्धिमती ✓
- (B) बुद्धिमत्
- (C) बुद्धिमतीप्
- (D) बुद्धिमतीम्
Answer (the board’s key): (A)
अयि शुभे! किम् एवं .......... रुद्यते?
- (A) त्वम्
- (B) त्वया ✓
- (C) त्वाम्
- (D) तव
Answer (the board’s key): (B)
भो: वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं ..........?
- (A) रुद्ये
- (B) रुद्यते
- (C) रोदिमि ✓
- (D) रोदिव:
Answer (the board’s key): (C)
स: दीन इति जानन्नपि स: कृषक: ................ पीडयति।
- (A) तौ
- (B) तेन
- (C) स:
- (D) तम् ✓
Answer (the board’s key): (D)
किम् एतत् भवता न ............?
- (A) दृश्यते ✓
- (B) पश्यति
- (C) दृश्ये
- (D) दृश्यसे
Answer (the board’s key): (A)
त्वं सर्वे एव मे प्रिया:?
- (A) युवाम्
- (B) यूयम् ✓
- (C) स:
- (D) तौ
Answer (the board’s key): (B)
महर्षिवाल्मीकि: उपनयन-उपदेशस्य आवयो: गुरु: अस्ति।
- (A) उपदेशेन
- (B) उपदेशाय
- (C) उपदेशयो:
- (D) उपदेशान्
सा कुपिता एवं भणसि।
- (A) भणत:
- (B) भणामि
- (C) भणति ✓
- (D) भणन्ति
Answer (the board’s key): (C)
विद्वांसः लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः ।
- (A) नेत्रवन्तः ✓
- (B) धनवन्तः
- (C) ज्ञानवन्तः
- (D) विद्यावन्तः
Answer (the board’s key): (A)
सा पुत्रौ चपेटया प्रहृत्य जगाद ।
- (A) गदति
- (B) अरोदित्
- (C) उक्तवती ✓
- (D) अहसत्
Answer (the board’s key): (C)
वायुमण्डलं भृशं दूषितम् ।
- (A) दूरम्
- (B) अत्यधिकम् ✓
- (C) न्यूनम्
- (D) किञ्चित्
Answer (the board’s key): (B)
पाषाणी सभ्यता निसर्गे समाविष्टा न स्यात् ।
- (A) निस्सरणम्
- (B) धरायाम्
- (C) स्वर्गे
- (D) प्रकृत्याम् ✓
Answer (the board’s key): (D)
Section B · Written questions (12)
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (i) केषां जीवनघटनाः अन्येभ्यः शिक्षाप्रदाः भवन्ति? (ii) केन केचन भूमिम् इमाम् अभूषयन्? (iii) पूर्वजानां संस्मरणं कैः कर्तव्यमेव? आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) (i) भारतभूम्याः प्रतिपदं काभिः प्रतिध्वन्यते? (ii) पूर्वजानां संस्मरणम् अस्मान् कीदृशं कार्यं कर्तुं प्रोत्साहयति? (iii) भारतभूमेः धर्मं संस्कृतिं जनताञ्च समरक्षयन्? इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। ई. यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) (i) 'ते एव भविष्यति काले जनैः संस्मर्यन्ते ।' अत्र किं क्रियापदम्? (क) भविष्यति (ख) काले (ग) संस्मर्यन्ते (घ) जनैः (ii) 'उक्तः' इति विशेषणपदस्य विशेष्यपदं किम्? (क) मार्गः (ख) तैः (ग) कवयः (घ) कवयः (iii) 'धराम्' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्? (क) धन्या (ख) भूमिम् (ग) इमाम् (घ) ओजसा (iv) 'अज्ञानेन' इति पदस्य विपर्ययपदं किं प्रयुक्तम्? (क) शौर्येण (ख) क्षात्रेण (ग) प्रेम्णा (घ) ज्ञानेन
भवान् अक्षतः। भवतः संस्कृतपठने रुचिः। भवान् कानिचन पुस्तकानि क्रेतुम् इच्छति। अतः प्रकाशकाय अधोलिखितं पत्रं मञ्जूषाप्रदत्तपदैः पूरयित्वा पुनः लिखत - मथुरातः दिनाङ्कः ............. (i) ............. प्रकाशन-प्रबन्धक-महोदया:! रा.शै.अनु.प्र.परिषद्, नई दिल्ली विषयः - पुस्तकक्रयस्य (ii) .............। मान्यवर! सविनयं (iii) ............. अस्ति यत् मम संस्कृत-संस्कृति-आधारितानां (iv) ............. पठने अधिका रुचिः वर्तते। मम (v) ............. भवतां प्रकाशितानां पुस्तकानां केचन सञ्ज्ञा: (vi) .............। भवद्भिः संस्कृत-परीक्षा दृष्ट्या कानिचन व्याकरण-पुस्तकानि, बालमनोविनोदनाय कथापुस्तकानि च प्रकाशितानि सन्ति। (vii).......................... पुस्तकेषु अहं कानिचन पुस्तकानि वाञ्छामि। तेषां सूची अधः (viii) ............. अस्ति। कृपया (ix) ............. पत्रालयमाध्यमेन सम्प्रेष्य माम् अनुगृह्न्तु भवन्तः। पुस्तकसूची - अभ्यासवान् भव, व्याकरणवीथिः, बालकथावली, व्याकरणसौरभम्। विनीत: (x) ............. मञ्जूषा पुस्तकानि, सन्ति, निवेदनम्, सेवायाम्, तेषु, सन्दर्भे, पुस्तकानाम्, समीपे, संलग्ना, अक्षतः।
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत - मञ्जूषा विपण्याः, हस्ते, जनाः, स्यूतः, कण्डोलः, आपणिकः, मापनम्, महिला, शिरसि, जनसम्मर्दः, क्रीणाति, शाकानि, फलानि, भ्रमन्ति। अथवा मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत - "मर्यादापुरुषोत्तमः श्रीरामः:" मञ्जूषा अयोध्यायाम्, सर्वदा, पालयति, धर्मज्ञः, सत्यप्रियः, आसीत्, जानाः, तस्य, जपम्, अभवत्, नाम्नः, नियमन्, ऋषयः, मुनयः, जन्म।
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत - (केवलं वाक्यपञ्चकम्) 1. माता पिता देवता के समान होते हैं । Parents are like Gods. 2. आत्मसम्मान ही सबसे बड़ी सम्पत्ति है । Self-respect is the greatest asset. 3. मेरे पिता जी सुबह कार्यालय जाते हैं । My father goes to office in the morning. 4. कल मेरे सभी मित्र मेरे घर आये थे । Yesterday all my friends came to my house. 5. कल हम सब खेलने जायेंगे । Tomorrow we will all go to play. 6. सभी का आदर होना चाहिए । Everyone should be respected. 7. हम सब श्लोक गाते हैं । We all sing shlokas.
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत- (केवलं प्रश्नचतुष्टयम्) (i) ब्रह्मचारी ब्रह्ममुहूर्ते ............. 4:15 जागरण करोति । (ii) स: ............. 4:45 यौगिकक्रियां करोति । (iii) पश्चात् स: स्नात्वा ............. 5:30 उपासनां करोति । (iv) तदनन्तरं ............. 6:00 वेदपारायणं करोति । (v) स: ............. 8:15 अल्पाहारं करोति ।
मञ्जूषायां प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत - (केवलं प्रश्नत्रयम्) (i) ............. भवता मृणालपटली भुक्ता । (ii) अस्माकं परीक्षा ........ अस्ति । (iii) ............. विद्यालये कार्यक्रम: आसीत् । (iv) मां विहाय कथमन्त्य: क: ............. राजा भवितुम् अर्हति? मञ्जूषा अद्य, ह्य:, अपि, यत्र
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकाय:। भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया कन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच 'रे दुष्ट! तस्मिन् दिने त्वाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारित:। इदानीं निजकृतस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे" इति प्रोच्य उच्चै: अहसत्। यथाकथञ्चित् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ। अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (क) अभियुक्त: कया क्रन्दति स्म? (ख) अभियुक्त: कीदृश: आसीत्? (ग) कीदृशं देहं वहन्तौ तौ प्रस्थितौ? आ. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (क) मुदित: आरक्षी अभियुक्तं किम् उवाच? (ख) उभौ शवं कुत्र स्थापितवन्तौ? (ग) कीदृशस्य शवस्य वहनं दुष्करम् आसीत्? इ. निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम्) (क) 'दु:खी' इत्यस्य किं विपर्ययपदम् अत्र प्रयुक्तम्? (ख) 'मृतशरीरस्य' इत्यस्य पर्यायपदं गद्यांशात् चित्वा लिखत। (ग) 'प्राचलताम्' क्रियापदस्य कर्तृपदं लिखत।
अधोलिखितं पद्ये पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - अवक्रता यथा चित्ते तथा वाचि भवेद् यदि। तदेवाहु: महात्मान: समत्वमिति तथ्यत:।। त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्। परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधी:।। अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (क) चित्ते वाचि च का भवेत्? (ख) क: परुषां वाचं वदति? (ग) तदेव समत्वम् इति के आहु:? आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) (क) क: अपक्वं फलं भुङ्क्ते? (ख) समत्वं किं भवति? (ग) वाचि कीदृशी अवक्रता भवेत्? इ. निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम्) (क) 'आहु:' इति क्रियापदस्य कर्तृपदं किम्? (ख) 'वक्रता' इति पदस्य विलोमपदं श्लोकात् चित्वा लिखत। (ग) 'मनसि' इति पदस्य पर्यायपदं श्लोकात् चित्वा लिखत।
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - (सिंहासनस्थ: राम:। तत: प्रविशत: विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ) विदूषक: - इत इत आर््यौ! कुशलवौ - (रामम् उपसत्य प्रणम्य च) अपि कुशलं महाराजस्य? राम: - युष्मदर्शनात् कुशलमिव। भवत: किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य) अहो हृदयग्राही स्पर्श:। (आसनार्धमुपवेशयति) उभौ - राजासनं खल्वेतत्, न युक्तमध्यासितुम्। राम: - सव्यवधानं न चारित्रलोपाय। तस्मादङ्क-व्यवहितमध्यास्यतां सिंहासनम्। (अङ्कमुपवेशयति) उभौ - (अनिच्छां नाटयत:) राजन्! अलमतिदाक्षिण्येन। राम: - अलमतिशालीनतया। भवति शिशुजनो वयोऽनुरोधाद् गुणमहतामपि लालनीय एव। व्रजति हिमकरोऽपि बालभावात् पशुपति-मस्तक-केतकच्छदत्वम्।। राम: - एष भवत: सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयो: सूर्यचन्द्रयो: को वा भवतोर्वंशस्य कर्ता? लव: - भगवन् सहस्रदीधिति:। अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (क) कुशलवयो: मार्गं क: निर्दिशति? (ख) कौ अनिच्छां नाटयत:? (ग) कुशलवयो: वंशस्य कर्ता क:? आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) (क) राम: कथं वंशपरिचयं पृच्छति? (ख) कुशलवौ रामम् उपसत्य प्रणम्य च किं पृच्छत:? (ग) हिमकर: कस्मात् भावात् पशुपते: मस्तके व्रजति? इ. निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम्) (क) 'निर्गच्छत:' इति पदस्य विपर्ययपदं नाट्यांशात् चित्वा लिखत। (ख) 'तत: प्रविशत: विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ।' अत्र कर्तृपदं किम्? (ग) 'समीपं गत्वा' इत्यस्य पर्यायपदं किं प्रयुक्तम्?
रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत - (केवलं प्रश्नचतुष्टयम्) (क) हिमकर: बालभावात् पशुपते: मस्तके व्रजति। (ख) गज: वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति। (ग) चौरस्य पादध्वनिना अतिथि: प्रबुद्ध:। (घ) आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्। (ङ) दुर्वहमतत्र जीवितं जातं प्रकृति: एव शरणम्।
मञ्जूषात: समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुन: लिखत - तोयैरल्पैरपि करुणया भीमभानौ निदाघे मालाकार ! व्यरचि भवता या तरोरस्य पुष्टि:। सा किं शक्या जनयितुमिह प्रावृषेण्येन वारं धारासारानपि विकिरता विश्वतो वारिदेन ।। अन्वय: - हे मालाकार! (i) ............. निदाघे अल्पै: तोयै: अपि (ii) ......... करुणया अस्य तरो: या पुष्टि: व्यरचि। वाराम् (iii) ............. विश्वत: धारासारान् अपि विकिरता वारिदेन इह (iv) ......... सा (पुष्टि:) किं शक्या। मञ्जूषा भवता, भीमभानौ, जनयितुम्, प्रावृषेण्येन। अथवा मञ्जूषाया: साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुन: लिखत - सम्पत्तौ च विपत्तौ च महतामेकरूपता। उदये सविता रक्तो रक्तश्चास्तमये तथा ।। भावार्थ:- अस्य श्लोकस्य भाव: अस्ति यत् यथा (i)............. उदये समये रक्त: भवति, स: सूर्य: (ii) ................... समये अपि रक्त: भवति, तथैव महान्त: सज्जना: सम्पत्तौ (iii) ................... सति अपि शान्ता: भवन्ति एवमेव विपत्तौ आगते अपि ते (iv) ................... तिष्ठन्ति विचलित: न भवन्ति। मञ्जूषा अस्ते, सूर्य:, शान्ता:, आगते।
अधोलिखित-कथांशं समुचित-क्रमेण लिखत - (क) व्याघ्रोऽपि सहसा नष्ट: गलबद्धश्रगालक:। (ख) जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्? (ग) परं प्रत्युत्पन्नमति: सा जम्बुकमाक्षिपन्त्यङ्गुल्या तर्जयन्त्युवाच। (घ) शृगालेन सहितं पुनरायान्तं व्याघ्रं दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती। (ङ) अतएव उच्यते-बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा। (च) यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। (छ) स: व्याघ्र: तथा कृत्वा काननं ययौ। (ज) एवं प्रकारेण बुद्धिमती व्याघ्राद् भयात् पुनरपि मुक्ताऽभवत्।
The same preparation, with Medha Ma’am — on your phone
Every question of every chapter with its model answer, practice questions in the board’s own shapes, 45 minutes of class a day, written answers marked, a test every Sunday and a WhatsApp report to parents.
Medha Ma’am is an AI teacher, not a live tutor. Every answer is checked twice; a person takes responsibility.