CBSE Class 10 · Sanskrit · board exam 2027
CBSE Class 10 Sanskrit Sample Paper 2024
The board’s 2024 sample paper, set SQP-122 — all 35 questions as printed; 20 objective answers from the board’s own key. Each question names its chapter, where that chapter’s most-asked questions are.
Full marks 80 · Time 3 h
Section A · Objective questions (23)
* अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (i) कुत्र मेघाः इतस्ततः विहरन्ति? (ii) सर्वत्र उत्पन्नप्रकम्पन् कीदृशं भवति? (iii) जलस्य अभावेन के शुष्यन्ति? आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) (i) पर्यावरणं कथम् असन्तुलितं भवति? (ii) कदा भगवतः आशीर्वादा इव जलबिन्दवः निपतान्ति? (iii) प्राणिनः कदा म्रियन्ते? इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। ई. यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) (i) ‘कृषकाः क्षेत्राणि कृष्वा बीजानि वपन्ति ।’ अत्र किं क्रियापदम्? (ii) ‘असन्तुलितम्’ इति विशेषणपदस्य विशेष्यपदं किम्? (iii) ‘अरण्यानाम्’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्? (iv) ‘दुःखिताः’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?
- (क) कृष्वा
- (ख) बीजानि
- (ग) वपन्ति
- (घ) क्षेत्राणि
न्यायाधीश: आरक्षिणं दोषभाजनम् अमन्यत।
- (A) दोषस्य भाजनम् ✓
- (B) दोषाय भाजनम्
- (C) दोषं भाजनम्
- (D) दोषेण भाजनम्
Answer (the board’s key): (A)
काकचेष्ट: विद्यार्थी एव आदर्शछात्र: मन्यते।
- (A) काकस्य चेष्टा
- (B) काक: चेष्ट: इव
- (C) काक: इव चेष्टा यस्य स: ✓
- (D) काक: चेष्ट:
Answer (the board’s key): (C)
जलद! त्वं पर्वतकुलम् आश्वास्य रिक्तोऽसि।
- (A) पर्वतेभ्य: कुलम्
- (B) पर्वतानां कुलम् ✓
- (C) पर्वतेषु कुलम्
- (D) पर्वता: कुलम्
Answer (the board’s key): (B)
हयाश्च नागाश्च वहन्ति बोधिता:।
- (A) हयनागाश्च
- (B) हयानागा:
- (C) हयनाग:
- (D) हयनागा: ✓
Answer (the board’s key): (D)
धरातलं मलेन सहितं जातम्।
- (A) सहमलम्
- (B) समलम् ✓
- (C) यथामलम्
- (D) उपमलम्
Answer (the board’s key): (B)
अन्योऽपि बुद्धिमान् लोके मुच्यते?
- (A) बुद्धि + मतुप् ✓
- (B) बुद्धि + टाप्
- (C) बुद्धि + ङीप्
- (D) बुद्धि + इक्
Answer (the board’s key): (A)
पुत्रस्य अभ्यधिका कृपा।
- (A) अभ्यधिक + ठक्
- (B) अभ्यधिक + टाप्
- (C) अभ्यधिक + ङीप्
- (D) अभ्यधिक + तल्
त्वं मीनान् छलेन अधिगृह्य क्रूर + तल् भक्षयसि।
- (A) क्रूरतायै
- (B) क्रूरतायाः
- (C) क्रूरतया ✓
- (D) क्रूरतानाम्
Answer (the board’s key): (C)
तदेवाहुः महात्मान्: सम + त्व इति तथ्यतः।
- (A) समत्वम् ✓
- (B) समता
- (C) समताम्
- (D) समतया
Answer (the board’s key): (A)
सा तपस्विनी। स्वापत्यम् एवम् निर्भर्त्सयति।
- (A) तपस्वी + ठक्
- (B) तपस्वी + तल्
- (C) तपस्वी + इन्
- (D) तपस्विन् + ङीप् ✓
Answer (the board’s key): (D)
भो: वासव! पुत्रस्य दैन्यं दृष्ट्वा मया .........?
- (A) रुद्ये
- (B) रुद्यते
- (C) रुद्यसे
- (D) रोदिमि
स: दीन इति जानन्नपि स: कृषक: ................. पीडयति ।
- (A) तम् ✓
- (B) तेन
- (C) स:
- (D) ता:
Answer (the board’s key): (A)
किम् एतत् भवता न .............?
- (A) दृश्ये
- (B) दृश्यसे
- (C) दृश्यते ✓
- (D) पश्यति
Answer (the board’s key): (C)
.......... पुत्राय बाल्ये महत् विद्याधनं यच्छति ।
- (A) पिता ✓
- (B) पित्रा
- (C) पितरम्
- (D) पितर:
Answer (the board’s key): (A)
मार्ग गहनकानने सा एकं व्याघ्रं ददर्श?
- (A) मार्गः
- (B) मार्गे ✓
- (C) मार्गात्
- (D) मार्गाय
Answer (the board’s key): (B)
सः ह्यः पदातिरेव चलिष्यति।
- (A) अचलत् ✓
- (B) अचलः
- (C) चलतु
- (D) चलेत्
Answer (the board’s key): (A)
किं सा कुपितः एवं भणति?
- (A) कुपितौ
- (B) कुपिता ✓
- (C) कुपिताः
- (D) कुपिते
Answer (the board’s key): (B)
सर्वे प्रकृतिमातरं प्रणमति।
- (A) प्रणमतः
- (B) प्रणमथः
- (C) प्रणमावः
- (D) प्रणमन्ति ✓
Answer (the board’s key): (D)
पाषाणी सभ्यता निसर्गे न स्यात् ।
- (A) संसर्गे
- (B) प्रकृतौ ✓
- (C) प्रसङ्गे
- (D) पृथिव्याम्
Answer (the board’s key): (B)
सा पुत्रं चपेटया प्रहृत्य जगाद ।
- (A) प्रोत्साह्य
- (B) विचारं कृत्वा
- (C) प्रशंसां कृत्वा
- (D) ताडयित्वा ✓
Answer (the board’s key): (D)
दुर्बले सुते मातुः कृपा भवति ।
- (A) वीरे पुत्रे
- (B) निर्बले पुत्रे ✓
- (C) धीरे सुते
- (D) प्रदत्तं सर्वम्
Answer (the board’s key): (B)
अर्थकार्श्येन पीडितः पदातिरेव प्राचलत् ।
- (A) धनाभावेन ✓
- (B) अर्थाधिक्येन
- (C) अर्थप्राप्तये
- (D) सर्वम्
Answer (the board’s key): (A)
Section B · Written questions (12)
* भवान् दिवाकरः। स्वमातुलं निमन्त्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत-
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत - अथवा निम्नलिखित विषयम् अधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत - “क्रीडा-महत्त्वम्”
* अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत - (केवलं वाक्यपञ्चकम्) 1. देश की शिक्षाव्यवस्था अच्छी है। The education system of the country is good. 2. क्या तुम विदेश में पढ़ोगे? Will you study abroad? 3. मैं सुबह आठ बजे विद्यालय जाता हूँ। I go to school at eight in the morning. 4. आपके संस्कृत शिक्षक का नाम क्या है? What is the name of your Sanskrit teacher?
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (केवलं प्रश्नचतुष्टयम्) (i) अस्य पिता किं तप:+ तेपे। (ii) मम नृत्यं तु प्रकृतेराराधना। (iii) नय माम् अस्मात्+नगरात् बहुदूरम्। (iv) अन्योऽपि बुद्धिमॉल्लोके मुच्यते महतो भयात्। (v) भूरि परिश्रम्य किञ्चित्+वित्तम् उपार्जितवान्।
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत- (केवलं प्रश्नचतुष्टयम्) (i) अधोक्षज: ब्रह्ममुहूर्ते --------- 3:30 जागर्ति । (ii) स: ----------- 4:00 योगाभ्यासं करोति । (iii) तदनन्तरम् स: स्नात्वा -------------- 4:30 सन्ध्योपासनां करोति । (iv) पश्चात् स: -------------- 5:15 वेदाभ्यासं करोति । (v) स: ----------- 11:45 मध्याहभोजनं करोति ।
मञ्जूषायां प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत – (केवलं प्रश्नत्रयम्) (i) ------- आस्ते सा धूर्ता तत्र गम्यताम् । (ii) अरे परभृत्! अहं ------- तव सन्ततिं न पालयामि तर्हि कुत्र स्यु: पिका:? (iii) तत्त A: ---------- एव छात्रावासे अध्ययने संलग्न: समभूत् । (iv) त्वं कारादण्डं लप्स्यसे इति प्रोच्य --------- अहसत् आरक्षी । मञ्जूषा उच्चै:, यदि, तत्र, यत्र
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान् । न्यायाधीशो बङ्किमचन्द्र: उभाभ्यां पृथक् पृथक् विवरणं श्रुतवान् । सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम् । किन्तु प्रमाणाभावात् स निर्णेतुं नाशकनोत् । ततोसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान् । अन्येद्यु: तौ न्यायालये स्व-स्व-पक्षं पुन: स्थापितवन्तौ । तदैव कश्चिद् तत्रत्य: कर्मचारी समागत्य न्यवेदयत् यत् इत: कोशद्वयान्तराले कश्चिज्जन: केनापि हत: । तस्य मृतशरीरं राजमार्ग निकषा वर्तते । आदिश्यतां किं करणीयमिति? न्यायाधीश: आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान् । आदेशं प्राप्य उभौ प्राचलताम् । तत्रोपत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धे वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ । अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (क) न्यायाधीश: कं दोषभाजनम् अमन्यत? (ख) आरक्षी चौर्याभियोगे तं जनं कुत्र नीतवान्? (ग) न्यायाधीश: आरक्षिणम् अभियुक्तं च किम् आनेतुम् आदिष्टवान्? आ. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) (क) उभौ कथं न्यायाधिकरणं प्रति प्रस्थितौ? (ख) कर्मचारी समागत्य किं न्यवेदयत्? (ग) न्यायाधीशो बङ्किमचन्द्र: किं श्रुतवान्? इ. निर्देशानुसारम् उत्तरत- (केवलं प्रश्नद्वयम्) (क) 'अमन्यत' इत्यस्य क्रियापदस्य कर्तृपदं किम्? (ख) 'पटाच्छादितम्' इति विशेषणपदस्य किं विशेष्यपदं प्रयुक्तम्? (ग) 'समीपम्' इत्यस्य किं पर्यायपदं प्रयुक्तम्?
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम् । शुचिपर्यावरणम् ।। महानगरमध्ये चलदनिर्शं कालायसचक्रम् । मन: शोषयत् तनु: पेषयद् भ्रमति सदा वक्रम् ।। दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम् । शुचिपर्यावरणम् ।। अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (क) अत्र किं दुर्वहं जातम्? (ख) महानगरे कालायसचक्रं कदा चलति? (ग) पर्यावरणं कीदृशं भवितव्यम्? आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) (क) कालायसचक्रं किं कुर्वत् वक्रं भ्रमति? (ख) केन जनग्रसनं न स्यात्? (ग) का अस्माकं शरणम् अस्ति? इ. निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम्) (क) 'सर्वदा' इति पदस्य पर्यायपदं श्लोकात् चित्वा लिखत । (ख) 'सुकर्म' इति पदस्य विलोमपदं श्लोकात् चित्वा लिखत । (ग) 'दुर्दान्तै: दशनै:' इत्यनयो: पदयो: किं विशेषणपदम्?
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (सिंहासनस्थ: राम: । तत: प्रविशत: विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ) विदूषक: - इत इत आर्यौ! कुशलवौ - (रामम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य? राम: - युष्मदर्शनात् कुशलमिव । भवत: किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य । (परिष्वज्य) अहो हृदयग्राही स्पर्श: । (आसनार्थमुपवेशयति) उभौ - राजासनं खल्वेतत्, न युक्तमध्यासितुम् । राम: - सव्यवधानं न चारित्रलोपाय । तस्मादङ्क-व्यवहितमध्यास्यतां सिंहासनम् । (अङ्कमुपवेशयति) उभौ - (अनिच्छां नाटयत:) राजन्! अलमतिदाक्षिण्येन । राम: - अलमतिशालीनतया । भवति शिशुजनो वयोऽनुरोधाद् गुणमहतामपि लालनीय एव । व्रजति हिमकरोडपि बालभावात् पशुपति-मस्तक-केतकच्छदत्वम् ।। राम: - एष भवत: सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयो: सूर्यचन्द्रयो: को वा भवतोर्वंशस्य कर्ता? लव: - भगवन् सहस्रदीधिति: । अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (क) कुशलवयो: वंशस्य कर्ता क:? (ख) कौ अनिच्छां नाटयत:? (ग) कुशलवयो: मार्गं क: निर्दिशति? आ. पूर्णवाक्येन उत्तरत -(केवलं प्रश्नद्वयम्) (क) हिमकर: कस्मात् भावात् पशुपते: मस्तके व्रजति? (ख) कुशलवौ रामम् उपसृत्य प्रणम्य च किं पृच्छत:? (ग) राम: कथं कुशलवयो: वंशपरिचयं पृच्छति? इ. निर्देशानुसारम् उत्तरत-(केवलं प्रश्नद्वयम्) (क) 'तत: प्रविशत: विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ ।' अत्र कर्तृपदं किम्? (ख) 'समीपं गत्वा' इत्यस्य पर्यायपदं किं प्रयुक्तम्? (ग) 'निर्गच्छत:' इति पदस्य विपर्ययपदं नाट्यांशात् चित्वा लिखत ।
* रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत - (केवलं प्रश्नचतुष्टयम्) (क) अहं वन्यजन्तूनाम् उपरि आक्रमणं कर्तारं वनात् बहिष्करिष्यामि । (ख) मां निजगले बद्ध्वा चल सत्वरम् । (ग) चौरस्य पादध्वनिना अतिथि: प्रबुद्ध: । (घ) गज: वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति । (ङ) आचार: प्रथमो धर्म: इत्येतद् विदुषां वच: ।
मञ्जूषात: समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुन: लिखत - आश्वास्य पर्वतकुलं तपनोष्णतप्त- मुद्दामदावविधुराणि च काननानि । नानादीनदशतानि पूरयित्वा रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्री: ॥ अन्वय: - हे जलद! (त्वं) (i) ............. पर्वतकुलम् उद्दामदावविधुराणि (ii) ............. च आश्वास्य नानादीनदशतानि (iii) ............... च यत् (स्वयं) रिक्त: असि, सा (रिक्ता) एव तव (iv) ............. श्री: (अस्ति) । मञ्जूषा उत्तम, काननानि, तपनोष्णतप्तम्, पूरयित्वा अथवा मञ्जूषाया: साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुन: लिखत - विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम् । अश्वश्चेद् धावने वीर: भारस्य वहने खर: ॥ भावार्थ:- अस्य श्लोकस्य भाव: अस्ति यत् (i) ....... विचित्रे संसारे किञ्चिदपि वस्तु निरर्थकं न अस्ति । यत: यदा धावनस्य कार्यं भवति तदा (ii) ................. प्रयोग: भवति परन्तु यदा (iii) ............. कार्यं भवति तदा खरस्य एव (iv) ........... भवति । मञ्जूषा अश्वस्य, भारवहनस्य, आवश्यकता, अस्मिन् ।
अधोलिखित-कथांशं समुचित-क्रमेण लिखत - (क) स तामेव असान्वयत् 'गच्छ वत्से! सर्वं भद्रं जायेत' । (ख) 'बहूनि अपत्यानि मे सन्ति' इति सत्यम् । (ग) सर्वेषु सन्तानेषु जननी तुल्यवत्सला एव । (घ) अचिरादेव चण्डवातेन मेघरवैर: च सह प्रवर्ष: समजायत । (ङ) सुरभिवचनं श्रुत्वा इन्द्रस्य हृदयम् अद्रवत् । (च) यतोहि अयम् अन्येभ्य: दुर्बल: । (छ) तथापि दुर्बले सुते मातु: अधिका कृपा भवति । (ज) तथापि मम अस्मिन् पुत्रे विशिष्ट: स्नेह: ।
The same preparation, with Medha Ma’am — on your phone
Every question of every chapter with its model answer, practice questions in the board’s own shapes, 45 minutes of class a day, written answers marked, a test every Sunday and a WhatsApp report to parents.
Medha Ma’am is an AI teacher, not a live tutor. Every answer is checked twice; a person takes responsibility.