CBSE Class 10 · Sanskrit · board exam 2027
Chapter 1: अपठितावबोधनम्
This chapter’s questions from CBSE’s real papers of 2023–2026 — the 5 asked most often, 2 with the full model answer, 1 with how the answer begins — and objective questions with the board’s key.
- marks a year (about)
- 13
- questions a year (about)
- 6
- rank in Sanskrit
- #1
From 4 years of papers, 2023–2026 · full chapter-wise marks
Important questions — the ones the board asked most (5)
- Q1Case-based10 marksAsked: 2025
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - परोपकार: अर्थात् परेषाम् उपकार: अस्ति । परोपकारस्य प्रवृत्त्या एव मनुष्य: पशुभ्य: पृथक् भवति । आहारादिप्रवृत्तिषु पशव: मानवै: समं भवन्ति, परं मानव: स्वविवेकन ज्ञानेन च आत्मन: उन्नतिं करोति । अपि च, न केवलं मानवा: अपितु अस्माकं प्रकृति: अपि परेभ्य: एव अस्ति । यथा वृक्षा: स्वफलानि न खादन्ति, ते परेषाम् कृते एव फलानि छायां च यच्छन्ति । नद्य: परोपकाराय एव वहन्ति । गाव: अन्येभ्य: एव दुग्धं यच्छन्ति । अस्माकं पुण्यभूमौ अनेके महापुरुषा: अभवन् ये स्वप्राणान् परित्यज्य देशस्य समाजस्य च रक्षाम् अकुर्वन् । राजा शिवि: शरणागतस्य कपोतस्य रक्षायै स्वशरीरस्य मांसं कर्तयित्वा श्येनाय दत्तवान् । ऋषि: दधीचि: अपि वृत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत् । अद्यापि लोके अनेके समाजसुधारका: सन्ति ये स्वार्थ परित्यज्य लोककल्याणं कुर्वन्ति । अत: सत्यमेव कथितम् — अष्टादशपुराणेषु व्यासस्य वचनद्वयम् । परोपकार: पुण्याय पापाय परपीडनम् ॥ (अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (i) का: परोपकाराय एव वहन्ति ? (ii) केषु पशव: मानवै: समं भवन्ति ? (iii) क: वृत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत् ? (आ) पूर्णवाक्येन लिखत – (केवलं प्रश्नद्वयम्) (i) मनुष्य: पशुभ्य: कथं पृथक् भवति ? (ii) राजा शिवि: शरणागतस्य कपोतस्य रक्षायै किं कृतवान् ? (iii) मानव: केन आत्मन: उन्नतिं करोति ? (इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । (ई) यथानिर्देशम् उत्तरत – (केवलं प्रश्नत्रयम्) (i) ‘गाव: अन्येभ्य: एव दुग्धं यच्छन्ति’ अत्र किं कर्तृपदम् ? (A) गाव: (B) अन्येभ्य: (C) यच्छन्ति (D) एव (ii) ‘दधीचि:’ इति विशेष्यपदस्य विशेषणपदं किम् ? (A) ऋषि: (B) गाव: (C) मानव: (D) पशव: (iii) ‘तरव:’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ? (A) नद्य: (B) वृक्षा: (C) गाव: (D) फलानि (iv) ‘ते परेषाम् कृते एव फलानि छायां च यच्छन्ति’ अस्मिन् वाक्ये ‘ते’ इति पदं कस्मै प्रयुक्तम् ? (A) जनेभ्य: (B) सर्वेभ्य: (C) नदीभ्य: (D) वृक्षेभ्य:
- Q2Case-based10 marksAsked: 2024
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत : 'संस्कृतभाषा सर्वभाषाणां जननी' इत्युच्यते । परम् अद्यत्वे छात्राणां मध्ये एकः चर्चितः प्रश्नः वर्तते यत् "संस्कृतपठनेन के लाभाः ?" अर्थात् संस्कृतपठनेन जीवनवृत्तेः अवसराः के ? वस्तुतः भौतिके युगे ईदृशी जिज्ञासा स्वाभाविकी एव । अस्याः जिज्ञासायाः समुचितं समाधानं सञ्चारमाध्यमेन कर्तुं शक्यते । वयम् पश्यामः यत् अद्यत्वे संस्कृतपठनेन नैके लाभाः सन्ति । संस्कृतभाषा विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति । ऐतिहासिकदृष्ट्या संस्कृते लिखिताः ग्रन्थाः वेदाः महत्त्वपूर्णं स्थानं भजन्ते । आधुनिकसंस्कृतस्य वैज्ञानिकभाषारूपेण सर्वत्र महत्त्वपूर्णं स्थानं दृश्यते । यदा विश्वं कृत्रिममेधा विषये अनुसन्धानं करोति तत्र संस्कृतं महत् साहाय्यं कर्तुं शक्नोति । यतो हि संस्कृतस्य व्याकरणं पूर्णतया वैज्ञानिकम् अस्ति । वर्तमान समये संस्कृतस्य अध्येतारः शिक्षणकौशल-चिकित्सा-खगोल-विद्या-वास्तुविद्या-'आई.ए.एस.' प्रभृति । सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति । अस्माकं संस्कृतिः संस्कृताधारिता अपि । अत एव संस्कृतभाषायाः अध्ययनं जीवनमूल्यपरकम् जीवनवृत्तिसाधनपरम् च अस्ति, नात्र कोऽपि सन्देहः । (अ) एकपदेन उत्तरत : (केवलं प्रश्नद्वयम्) 2×1=2 (i) सर्वभाषाणां जननी का ? (ii) अस्माकं संस्कृतिः का आधारिता वर्तते ? (iii) कस्य व्याकरणं वैज्ञानिकम् ? (आ) पूर्णवाक्येन उत्तरत : (केवलं प्रश्नद्वयम्) 2×2=4 (i) ऐतिहासिकदृष्ट्या के महत्त्वपूर्णं स्थानं भजन्ते ? (ii) वर्तमानसमये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु के स्वप्रतिभा-प्रदर्शनं कुर्वन्ति ? (iii) संस्कृतभाषायाः अध्ययनं कीदृशम् अस्ति ? (इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । 1 (ई) यथानिर्देशम् उत्तरत : (केवलं प्रश्नत्रयम्) 3×1=3 (i) 'पश्यामः' इति क्रिया पदस्य कर्तृपदं किम् ? (A) नैके (B) वयम् (C) लाभाः (D) संस्कृतपठनेन (ii) 'समुचितम्' इति विशेषणपदस्य विशेष्यपदं किम् ? (A) समाधानम् (B) संस्कृतशिक्षकः (C) स्वानुभवैः (D) जिज्ञासायाः (iii) 'हानयः' इति पदस्य किं विपर्ययपदं गद्यांशे प्रयुक्तम् ? (A) सन्ति (B) लिखिताः (C) लाभाः (D) नैके (iv) 'अध्येतारः' इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम् ? (A) अस्ति (B) सन्ति (C) भजन्ते (D) कुर्वन्ति

Medha Ma’am
Ask Medha’s AI teacher
Model answer · unseen passage, Sanskrit benefits
- 1.संस्कृतभाषा।1 mark
- 2.संस्कृताधारिता (अस्माकं संस्कृतिः संस्कृताधारिता अस्ति)। यदि (iii) किया हो तो – संस्कृतस्य।1 mark
- 3.ऐतिहासिकदृष्ट्या संस्कृते लिखिताः ग्रन्थाः वेदाः महत्त्वपूर्णं स्थानं भजन्ते।2 marks
- 4.वर्तमानसमये संस्कृतस्य अध्येतारः शिक्षणकौशल-चिकित्सा-खगोलविद्या-वास्तुविद्या-'आई.ए.एस.'-प्रभृतिषु सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति। यदि (iii) किया हो तो – संस्कृतभाषायाः अध्ययनं जीवनमूल्यपरकं जीवनवृत्तिसाधनपरं च अस्ति।2 marks
- 5.संस्कृतपठनस्य लाभाः (अथवा – संस्कृतभाषायाः महत्त्वम्)।1 mark
- 6.(B) वयम्।1 mark
- 7.(A) समाधानम्।1 mark
- 8.(C) लाभाः। यदि (iv) किया हो तो – (D) कुर्वन्ति।1 mark
Marks split from a structure derived from past papers (checked twice); not CBSE’s official scheme
- Q3Case-based10 marksAsked: 2023
अधोलिखितं गद्यांशं पठित्वा प्रदतप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) अस्माकम् देशः प्राचीनकालादेव प्राकृतिक-पर्यावरणस्य पोषकः । वैदिककाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत् तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरणविषयकं चिन्तनं दृश्यते । अद्य पर्यावरण-प्रदूषणं संसारस्य भीषणतमा समस्या वर्तते, परं जनाः अस्याः गाम्भीर्यं न अनुभवन्ति । पर्यावरणं रक्षणीयं वृक्षाः रोपणीयाः रक्षणीयाः च इति शृण्वन्तः उद्घोषयन्तः अपि वयं प्रतिदिनं तेषां कर्तनं पश्यामः । 'प्लास्टिक' इति रसायनेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्तः अपि जनाः एतेषां प्रयोगं बाहुल्येन कुर्वन्ति । पर्यावरणप्रदूषकं धूमं क्षिपतां वाहनानाम् औद्योगिक-यन्त्रागाराणां सङ्ख्या निरन्तरं वर्धमाना अस्ति । यद्यपि विकासाय नवीनाः आविष्काराः, अपेक्षिताः परं सञ्चाराय विस्तृताः सुरक्षिताः मार्गाः जनानां कृते अपि आवश्यकाः एव । यदि पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि पृथिव्यां जीवनमेव असम्भवं भविष्यति तदा भौतिकनिकासेन किम् ! अतः सर्वकारः जनसहयोगेन सर्वथा पर्यावरणरक्षणाय यत्नशीलः भवेदिति । (i) के रोपणीयाः रक्षणीयाः च ? (ii) कदा पर्यावरणस्य प्रदूषणस्य समस्या नासीत् ? (iii) अस्माकं देशः कस्य पोषकः ? (ब) पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्) (i) किं जानन्तः जनाः प्लास्टिक-निर्मितवस्तूनां प्रयोगं बाहुल्येन कुर्वन्ति ? (ii) यदि पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि किं भविष्यति ? (iii) केषां सङ्ख्या निरन्तरं वर्धमाना अस्ति ? (स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । (द) यथान्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) (i) 'जनाः अस्याः गाम्भीर्यं न अनुभवन्ति' अत्र किं क्रियापदम् ? (a) जनाः (b) अत्र (c) अस्याः (d) अनुभवन्ति (ii) 'नवीनाः' इति विशेषणपदस्य विशेष्यपदं किम् ? (a) जनाः (b) आविष्काराः (c) अपेक्षिताः (d) मार्गाः (iii) 'शोषकः' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ? (a) विषयः (b) चिन्तनीयः (c) सरलः (d) पोषकः (iv) 'वयं प्रतिदिनं तेषां कर्तनं पश्यामः ।' अस्मिन् वाक्ये 'पश्यामः' क्रियायाः कर्तृपदं किं प्रयुक्तम् ? (a) वयम् (b) तेषाम् (c) प्रतिदिनम् (d) कर्तनम्

Medha Ma’am
Ask Medha’s AI teacher
Model answer · Unseen passage, environmental pollution
- 1.(अ) एकपदेन उत्तरत – (i) वृक्षाः (ii) वैदिककाले2 marks
- 2.(ब) पूर्णवाक्येन लिखत – (i) 'प्लास्टिक' इति रसायनेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्तः अपि जनाः प्लास्टिक-निर्मितवस्तूनां प्रयोगं बाहुल्येन कुर्वन्ति । (ii) यदि पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि पृथिव्यां जीवनम् एव असम्भवं भविष्यति ।4 marks
- 3.(स) शीर्षकम् – पर्यावरणप्रदूषणम्1 mark
- 4.(द) यथानिर्देशम् उत्तरत – (i) (d) अनुभवन्ति (ii) (b) आविष्काराः (iii) (d) पोषकः3 marks
- (अ) में केवल एक पद लिखें और (ब) में गद्यांश के शब्दों से पूरा वाक्य बनाएँ, जिसमें प्रश्न का कर्ता और क्रिया दोनों हों।
- जहाँ 'केवलं प्रश्नद्वयम्' या 'केवलं प्रश्नत्रयम्' लिखा हो, वहाँ उतने ही प्रश्न प्रश्न-संख्या के साथ हल करें।
- (द) में विकल्प का अक्षर और पद दोनों लिखें, जैसे (d) अनुभवन्ति।
Marks split as in the board’s published marking scheme
- Q4Case-based5 marksAsked: 2026
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत –
- Q5Very short answer1 markAsked: 2026
भारतवर्ष: अस्माकं जन्मभूमि: अस्ति । भारतदेश: संसारे प्रसिद्ध: अस्ति । अस्यैव अन्नेन, जलेन वायुना च वयं पालिता: पोषिता: च भवाम: । इयं जन्मभूमि: भारतभूमि: अस्माकं मातास्ति । अस्या: महिमा वर्णयितुं न शक्यते । इयं सा भारतभूमि: अस्ति, यत्र बहव: महर्षय: देशभक्ता: महाराजाश्च अभवन् । ये स्वबुद्धिबलेन स्वबाहुबलेन च विश्वस्य विजयम् अकुर्वन् । यदा सर्वस्मिन् जगति अविद्याया: प्रसार: आसीत्, तदा अत्र ऋषय: वेदानां गानम् कुर्वन्ति स्म । ते विदेशान् गत्वा ज्ञानस्य प्रसारम् अकुर्वन् । अत्रैव श्रीरामचन्द्र:, श्रीकृष्ण:, गौतमबुद्ध:, दयानन्द: अन्ये च महापुरुषा: अभवन्, येषां नाम न केवलं भारतवर्षे अपितु समस्ते जगति प्रसिद्धम् अस्ति । अस्माकं कर्तव्यमस्ति यद् वयं भारतवर्षस्य सदा उन्नतिं रक्षां च कुर्याम । जगति कस्या: प्रसार: आसीत् ?
Objective questions with the board’s key (9)
- 1. CBSE 2026
भारतवर्ष: अस्माकं जन्मभूमि: अस्ति । भारतदेश: संसारे प्रसिद्ध: अस्ति । अस्यैव अन्नेन, जलेन वायुना च वयं पालिता: पोषिता: च भवाम: । इयं जन्मभूमि: भारतभूमि: अस्माकं मातास्ति । अस्या: महिमा वर्णयितुं न शक्यते । इयं सा भारतभूमि: अस्ति, यत्र बहव: महर्षय: देशभक्ता: महाराजाश्च अभवन् । ये स्वबुद्धिबलेन स्वबाहुबलेन च विश्वस्य विजयम् अकुर्वन् । यदा सर्वस्मिन् जगति अविद्याया: प्रसार: आसीत्, तदा अत्र ऋषय: वेदानां गानम् कुर्वन्ति स्म । ते विदेशान् गत्वा ज्ञानस्य प्रसारम् अकुर्वन् । अत्रैव श्रीरामचन्द्र:, श्रीकृष्ण:, गौतमबुद्ध:, दयानन्द: अन्ये च महापुरुषा: अभवन्, येषां नाम न केवलं भारतवर्षे अपितु समस्ते जगति प्रसिद्धम् अस्ति । अस्माकं कर्तव्यमस्ति यद् वयं भारतवर्षस्य सदा उन्नतिं रक्षां च कुर्याम । 'देशभक्ता:' अस्य पदस्य विशेष्यपदं गद्यांशे किं प्रयुक्तम् ?
- (A) बहव:
- (B) महर्षय: ✓
- (C) महाराजा:
- (D) अभवन्
Answer: (B)
- 2. CBSE 2024
कश्चन निर्धन: वित्तम् उपार्जितवान् ।
- (A) वायुम्
- (B) फलम्
- (C) धनम् ✓
- (D) अन्नम्
Answer: (C)
- 3. CBSE 2024
अपर: वानर: सिंहस्य पुच्छं धुनाति ।
- (A) अनेका:
- (B) अन्य:
- (C) प्रथम:
- (D) एक: ✓
Answer: (D)
- 4. CBSE 2024
रसालमुकुलानि भृङ्गा: समाश्रयन्ते ।
- (A) हया:
- (B) नागा:
- (C) गजा:
- (D) भ्रमरा: ✓
Answer: (D)
- 5. CBSE 2024
वासव ! अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि ।
- (A) पुत्र !
- (B) इन्द्र ! ✓
- (C) गणेश !
- (D) शिव !
Answer: (B)
- 6. CBSE 2023
एक: दुर्बल: बलीवर्द: भूमौ पपात ।
- (A) गौ:
- (B) धेनु:
- (C) वृषभ: ✓
- (D) महिष:
Answer: (C)
- 7. CBSE 2023
तदा तत्र सुराधिप: आगच्छत् ।
- (A) नृप:
- (B) कृषक:
- (C) धेनु:
- (D) इन्द्र: ✓
Answer: (D)
- 8. CBSE 2023
नराणां प्रथम: शत्रु: आलस्यम् अस्ति ।
- (A) मानव:
- (B) मित्रम्
- (C) रिपु: ✓
- (D) सहायक:
Answer: (C)
- 9. CBSE 2023
फलच्छायासमन्वित: वृक्ष: सेवितव्य: ।
- (A) तरु: ✓
- (B) खग:
- (C) छाया
- (D) मानव:
Answer: (A)
Questions parents and students ask
- How many marks does "अपठितावबोधनम्" carry in CBSE Class 10 Sanskrit?
- In the CBSE papers of 2023–2026, this chapter carried about 13 marks and about 6 questions a year; by marks it ranks 1 in Sanskrit.
- Which are the most important (VVI) questions of "अपठितावबोधनम्"?
- The 5 questions above are from the board’s real papers, each with the years it was asked; the most-asked come first with their full model answers. All 5 written questions of this chapter, with answers, are in the Ask Medha app.
- Do the answers follow the board’s marking scheme?
- Yes. CBSE publishes its marking schemes; every model answer here is written point by point to the marks the board’s own scheme gives, and checked by a second, independent model.
The same preparation, with Medha Ma’am — on your phone
Every question of every chapter with its model answer, practice questions in the board’s own shapes, 45 minutes of class a day, written answers marked, a test every Sunday and a WhatsApp report to parents.
Medha Ma’am is an AI teacher, not a live tutor. Every answer is checked twice; a person takes responsibility.